Get it on Google Play
Download on the App Store

नवरात्रसंकल्प

॥ श्रीमन्महागणाधिपतये नमः ॥
अद्य पूर्वोच्चरित । फलप्राप्त्यर्थ सावर्णिसगोत्रोत्पन्नस्य x x x  शर्मणः यजमानस्य सकुटुंबस्य सपरिवारस्य द्विपादचतुष्पादसहितस्य मम क्षेम - स्थैर्यायुरारोग्यैश्वर्याभिवृद्धि - सकलापच्छांति - सर्व शत्रु परजाऽखंडैश्वर्याभिवृद्धिसकलेष्टमनोरथसिद्धिसद्बुद्धिप्राप्तिपूर्वकसत्कीर्तिसिद्धि - पुत्रपौत्राखंडदंडायमानसंततिप्रार्तिअस्वगतराज्यस्य स्थिरीकरणद्वारा च श्रीमहाकालीमहालक्ष्मीमहासरस्वतीत्रिगुणात्मकश्रीदुर्गाभवानीशंकरप्रीत्यर्थं प्रतिवार्षिकविहितमाश्विन शुद्ध प्रतिपद्दिनमारभ्य महानवमीदिनपर्यंत ब्राह्मणद्वारा त्रिकाल महापूजोपवासपूर्वक शारदीय नवरात्रमहोत्सवाख्यं कर्म करिष्ये । तथा च तदंगतया शतावृत्तिभिः श्रीसूक्तजयं तावत्संख्याकं बटुभैरवस्तोत्रजपं तावत्संख्याकं सौदर्यलहरीस्तोत्रजपं तावत्संख्याकं शिवकवचस्तोत्रमालामंत्रजपं तावत्संख्याकं महिम्नस्तोत्रजपं तथा चायुतसंख्याकं महामृत्युंजयजपं तावत्संख्याकमादित्यादिनवग्रह मंत्र जपं तथा च लघुरुद्रजप प्रतिदिनं चाष्टोत्तरशतनमस्कारांस्तावतीः प्रदक्षिणश्च करिष्ये । तथा च तन्निमित्ततया मार्कंडेयपुराणांतर्गत श्रीसप्तशतीस्तोत्रमालामंत्रस्मादौ कवचार्गलाकीलकयुतस्यांते रहस्यत्रयसहितस्य प्रत्यावृत्यष्टोत्तर शतनावर्ण मंत्रजप संपुटितस्य सहस्रावृत्तिजपं तथा च तद्दशांशेन विहितहोम प्रत्याम्नायहिगुणजपं तथा च शतावृत्तिभिर्भवानी सहस्रनामस्तोत्र जपं तथा चायुत संख्याकं मूलमंत्रजपं तावत्संख्याकं दुर्गामंत्रजपमद्यप्रभृति यावत्समाति ब्राह्मणद्वारा करिष्ये । तत्रादौ निर्विघ्नतासिद्ध्यर्थं महागणपतिपूजनपूर्वकं स्वस्तिपुण्याहवाचनं मातृकापूजनं वसोर्धारापूजनमायुष्यमंत्रजपं नांदीश्राद्धमाचार्यवरणं च करिष्ये ॥ इति संकल्पः ॥