Get it on Google Play
Download on the App Store

सूर्याष्टकम् (१)

श्रीगणेशाय नम: ॥ सांब उवाच ॥

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥

सत्पाश्‍वरथमारुढं प्रचण्डं कश्यपात्मजम् । श्‍वेतपद्मधरं देवं तं सुर्यं प्रणमाम्यहम् ॥२॥

लोहितं रथमारुढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं० ॥३॥

त्रैगुण्यं च महाशुरं ब्रह्माविष्णुमहेश्‍वरम् । महापापहरं देव तं० ॥४॥

बृंहितं तेज:पुत्र्जं च वायुराकाशमेव च । प्रभुस्त्वं सर्वलोकानां तं सुर्य०॥५॥

बंधुकपुष्पसंकाशं हारकुंडलभुषितम् । एकचक्रधरं देवं तं सुर्यं० ॥६॥

तं सुर्यं जगत्कर्तारं महातेज:प्रदीपनम् । महापापहरं देवं तं सुर्यं० ॥७॥

तं सुर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सुर्यं० ॥८॥

सुर्याष्टकं पठोन्नित्यं ग्रहपीडाप्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥९॥

आमिषं मधुपानं च य: करोति रवेर्दिने । सप्त जन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥१०॥

स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने । न व्याधिशोकदारिद्रयं सुर्यलोकं स गच्छति ॥११॥

इति शिवप्रोक्तं सुर्याष्टकस्तोत्रं सम्पूर्णम् ।