Get it on Google Play
Download on the App Store

जयलाभादिकरं श्रीदत्तस्तोत्रम्

दत्तात्रेय महात्मानं वरदं भक्तवत्सलम् । प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स माऽ‍वतु ॥१॥
दीनबन्धु कृपासिंन्धु सर्वकारणकारणम् । सर्वरक्षाकरं वन्दे स्मर्तृगामी स माऽवतु ॥२॥
शरणा गतदीनार्तपरित्राणपरायणाम् । नारायणं विभुं वन्दे स्मर्तृगामी स माऽवतु ॥३॥
सर्वानर्थहरं वन्दे सर्वमङ्गलमङ्गलम् । सर्वक्लेशहरं वन्दे स्मर्तृगामी स माऽवतु ॥४॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् । भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥५॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः । तापप्रशमनं वन्दे स्मर्तृगामी स माऽवतु ॥६॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् । आपदुद्धरणं वन्दे स्मर्तृगामी स माऽवतु ॥७॥
जन्मसंसारबंधघ्नं स्वरूपानन्दायकम् । निःश्रेयसप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥८॥
जयलाभयशःकामदातुर्दत्तस्त यः स्तवम् । भोगमोक्षप्रदस्येमं प्रपठत्स कृती भवेत् ॥९॥

दत्त स्तोत्रे

स्तोत्रे
Chapters
श्रीदत्तात्रेयस्तोत्रम् दकारादि श्री दत्त सहस्रनाम स्तोत्रम् दत्त अथर्वशीर्ष दत्त भावसुधारस स्तोत्रम् दत्तमाला मन्त्र दत्तात्रेय अपराधक्षमापनस्तोत्रम् दत्तात्रेय अष्टचक्रबीजस्तोत्रम् दत्तात्रेयतन्त्रम् दत्तात्रेयप्रार्थनास्तोत्रम् दत्तस्तवस्त्रोत्र दत्त भावसुधारस स्तोत्रम् श्रीदत्तात्रेयप्रार्थनास्तोत्रम् घोर कष्टोद्धारण स्तोत्रम् दत्तात्रेयस्तोत्र श्रीदत्तात्रेय जय दत्तात्रेय दत्तात्रेय योग शास्त्र कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् अथ दत्तमाला प्रारभ्यते अथ दत्तकवचः प्रारभ्यते अथ श्रीदत्तहृदय प्रारंभः अथ दत्तपंजरः प्रारभ्यते अथ दत्तषट्चक्रस्तोत्रम् अथ कामधेनुकल्पः प्रारभ्यते अथ दत्तव्याहृति प्रारभ्यते अथ दत्तस्तवराजः प्रारभ्यते अथ श्रीदत्ताष्टकम् अथ श्रीदत्तोपनिषत् ( पूर्वतापिनी ) अथ श्रीदत्तोपनिषत् ( उत्तरतापिनी ) जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि स्तोत्रम् सर्वसौख्यकरं स्तोत्रम् दत्तलहरि ओव्या अथ श्रीदत्तात्रेयस्तोत्राणि दत्तरक्षास्तोत्रम्