Get it on Google Play
Download on the App Store

ललितापञ्चकम्

प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम्।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥१॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं रत्नाङ्गुळीयलसदङ्गुलिपल्लवाढ्याम्।
माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीःदधानाम् ॥२॥

प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम्।
पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥३॥

प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम्।
विश्वस्य सृष्टविलयस्थितिहेतुभूतां विश्वेश्वरीं निगमवाङ्गमनसातिदूराम् ॥४॥

प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति।
श्रीशाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते।
तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥६॥

 ॥ इति श्रीमच्छङ्करभगवतः कृतौ ललिता पञ्चकम् सम्पूर्णम् ॥

दशमहाविद्या स्तोत्र

स्तोत्रे
Chapters
आद्या स्तोत्र आनन्दलहरी कमला स्तोत्रम कर्पूरादिस्तोत्र कल्याणवृष्टिस्तव कामकलाकालीस्तोत्रम श्रीकालिका श्रुतिसुध श्रीछिन्नमस्ताहृदय श्रीज्वालामुखीस्तोत्र डाकिनी स्तोत्रम् तारास्तोत्रम् अपराध क्षमापन स्तोत्र श्रीत्रिपुरसुन्दरी सुप्रभातम् दशमहाविद्यास्तोत्रम् श्री नील सरस्वती स्तोत्रम् श्रीबगलामुखी स्तोत्रम् श्रीभुवनेश्वरी पञ्चकं श्री महात्रिपुरसुन्दरी सुप्रभातम् महाषोडशीवर्णरत्नावलिस्तोत्रम् श्री मङ्गलचण्डिकास्तोत्रम् श्री राजराजेश्वरी चूर्णिका राजराजेश्वरीस्तवः श्रीराजराजेश्वरी मन्त्रमातृकास्तवः श्री ललिता चतुःषष्ट्युपचारसङ्ग्रहः ललिता त्रिशति श्रीललिता त्रिशति नामावलिः ललितापञ्चकम् ललितास्तवरत्नं श्री ललिताहृदय स्तोत्रं श्यामला दण्डकम् श्यामलानवरत्नमालिकास्तोत्रम् श्रीविद्यारत्नसूत्राणि षट्त्रिंशन्नवमल्लिकास्तवः सौन्दर्यलहरी