Get it on Google Play
Download on the App Store

कमला स्तोत्रम

ओंकाररूपिणी देवि विशुद्धसत्त्वरूपिणी ॥
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि ॥
तन्मात्रंचैव भूतानि तव वक्षस्थलं स्मृतम् ।
त्वमेव वेदगम्या तु प्रसन्ना भव सुंदरि ॥
देवदानवगन्धर्वयक्षराक्षसकिन्नरः ।
स्तूयसे त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि ॥
लोकातीता द्वैतातीता समस्तभूतवेष्टिता ।
विद्वज्जनकीर्त्तिता च प्रसन्ना भव सुंदरि ॥
परिपूर्णा सदा लक्ष्मि त्रात्री तु शरणार्थिषु ।
विश्वाद्या विश्वकत्रीं च प्रसन्ना भव सुन्दरि ॥
ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत् ।
विश्वरूपा वरेण्या च प्रसन्ना भव सुंदरि ॥
क्षित्यप्तेजोमरूद्धयोमपंचभूतस्वरूपिणी ।
बन्धादेः कारणं त्वं हि प्रसन्ना भव सुंदरि ॥
हे जननी! क्षिति, जल, तेज, मरूत्‌ और व्योम
पंचभूतों की स्वरूप आप ही हैं । गंध, जल का रस,
महेशे त्वं हेमवती कमला केशवेऽपि च ।
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुंदरि ॥
चंडी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी ।
योगिनी योगगम्या च प्रसन्ना भव सुन्दरि ॥
बाल्ये च बालिका त्वं हि यौवने युवतीति च ।
स्थविरे वृद्धरूपा च प्रसन्ना भव सुन्दरि ॥
गुणमयी गुणातीता आद्या विद्या सनातनी ।
महत्तत्त्वादिसंयुक्‍ता प्रसन्ना भव सुन्दरि ॥
तपस्विनी तपः सिद्धि स्वर्गसिद्धिस्तदर्थिषु ।
चिन्मयी प्रकृतिस्त्वं तु प्रसन्ना भव सुंदरि ॥
त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम् ।
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेवहि ॥
चराचराणां भूतानां बहिरन्तस्त्वमेव हि ।
व्याप्यव्याकरूपेण त्वं भासि भक्‍तवत्सले ॥
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥
तावन्सत्यं जगद्भाति शुक्‍तिकारजतं यथा ।
यावन्न ज्ञायते ज्ञानं चेतसा नान्वगामिनी ॥
त्वज्ज्ञानात्तु सदा युक्‍तः पुत्रदारगृहादिषु ।
रमन्ते विषयान्सर्वानन्ते दुखप्रदान् ध्रुवम् ॥
त्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम् ।
चन्द्रश्च भ्रमते नित्यं प्रसन्ना भव सुन्दरि ॥
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ।
व्यक्‍ताव्यक्‍त च देवेशि प्रसन्ना भव सुन्दरि ॥
अचला सर्वगा त्वं हि मायातीता महेश्वरि ।
शिवात्मा शाश्वता नित्या प्रसन्ना भव सुन्दरि ॥
सर्वकायनियन्त्री च सर्व्वभूतेश्वरी ।
अनन्ता निष्काला त्वं हि प्रसन्ना भवसुन्दरि ॥
सर्वेश्वरी सर्ववद्या अचिन्त्या परमात्मिका ।
भुक्‍तिमुक्‍तिप्रदा त्वं हि प्रसन्ना भव सुन्दरि ॥
ब्रह्माणी ब्रह्मलोके त्वं वैकुण्ठे सर्वमंगला ।
इंद्राणी अमरावत्यामम्बिका वरूणालये ॥
यमालये कालरूपा कुबेरभवने शुभा ।
महानन्दाग्निकोणे च प्रसन्ना भव सुन्दरि ॥
सुन्दरी! आप हम पर प्रसन्न हों ।
नैऋर्त्यां रक्‍तदन्ता त्वं वायव्यां मृगवाहिनी ।
पाताले वैष्णवीरूपा प्रसन्ना भव सुन्दरि ॥
सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी ।
भद्रकाली च लंकायां प्रसन्ना भव सुन्दरि ॥
रामेश्वरी सेतुबन्धे सिंहले देवमोहिनी ।
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि ॥
कालिका त्वं कालिघाटे कामाख्या नीलपर्वत ।
विरजा ओड्रदेशे त्वं प्रसन्ना भव सुंदरि ॥
वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी ।
गयासुरी गयाधाम्नि प्रसन्ना भव सुंदरि ॥
भद्रकाली कुरूक्षेत्रे त्वंच कात्यायनी व्रजे ।
माहामाया द्वारकायां प्रसन्ना भव सुन्दरि ॥
क्षुधा त्वं सर्वजीवानां वेला च सागरस्य हि ।
महेश्वरी मथुरायां च प्रसन्ना भव सुन्दरि ॥
रामस्य जानकी त्वं च शिवस्य मनमोहिनी ।
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि ॥
विष्णुभक्‍तिप्रदां त्वं च कंसासुरविनाशिनी ।
रावणनाशिनां चैव प्रसन्ना भव सुन्दरि ॥
लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्सिंयुतः ।
सर्वज्वरभयं नश्येत्सर्वव्याधिनिवारणम् ॥
इदं स्तोत्रं महापुण्यमापदुद्धारकारणम् ।
त्रिसंध्यमेकसन्ध्यं वा यः पठेत्सततं नरः ॥
मुच्यते सर्व्वपापेभ्यो तथा तु सर्वसंकटात् ।
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ॥
समस्तं च तथा चैकं यः पठेद्भक्‍तित्परः ।
स सर्वदुष्करं तीर्त्वा लभते परमां गतिम् ॥
सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्‍तिसंयुक्‍तः ।
स तु कोटीतीर्थफलं प्राप्नोति नात्र संशयः ॥
एका देवी तु कमला यस्मिंस्तुष्टा भवेत्सदा ।
तस्याऽसाध्यं तु देवेशि नास्तिकिंचिज्जगत् त्रये ॥
पठनादपि स्तोत्रस्य किं न सिद्धयति भूतले ।
तस्मात्स्तोत्रवरं प्रोक्‍तं सत्यं हि पार्वति ॥

॥ इति श्रीकमला स्तोत्रं संपूर्णम् ॥

दशमहाविद्या स्तोत्र

स्तोत्रे
Chapters
आद्या स्तोत्र आनन्दलहरी कमला स्तोत्रम कर्पूरादिस्तोत्र कल्याणवृष्टिस्तव कामकलाकालीस्तोत्रम श्रीकालिका श्रुतिसुध श्रीछिन्नमस्ताहृदय श्रीज्वालामुखीस्तोत्र डाकिनी स्तोत्रम् तारास्तोत्रम् अपराध क्षमापन स्तोत्र श्रीत्रिपुरसुन्दरी सुप्रभातम् दशमहाविद्यास्तोत्रम् श्री नील सरस्वती स्तोत्रम् श्रीबगलामुखी स्तोत्रम् श्रीभुवनेश्वरी पञ्चकं श्री महात्रिपुरसुन्दरी सुप्रभातम् महाषोडशीवर्णरत्नावलिस्तोत्रम् श्री मङ्गलचण्डिकास्तोत्रम् श्री राजराजेश्वरी चूर्णिका राजराजेश्वरीस्तवः श्रीराजराजेश्वरी मन्त्रमातृकास्तवः श्री ललिता चतुःषष्ट्युपचारसङ्ग्रहः ललिता त्रिशति श्रीललिता त्रिशति नामावलिः ललितापञ्चकम् ललितास्तवरत्नं श्री ललिताहृदय स्तोत्रं श्यामला दण्डकम् श्यामलानवरत्नमालिकास्तोत्रम् श्रीविद्यारत्नसूत्राणि षट्त्रिंशन्नवमल्लिकास्तवः सौन्दर्यलहरी